दिल्ली संस्कृत अकादम्याः
सम्मानानि पुरस्काराश्च

संस्कृत-समाराधक-सम्मान-योजनाः
  अस्यां योजनायां देहलीस्थ-विद्यालयानां  संस्कृत-संगीत-शिक्षकशिक्षिकाभ्यः शिक्षानिदेशालयस्य द्वादशमण्डलेषु आयोजित-प्रतियोगितासु  छात्रान् सज्जीकरणार्थं सम्मानः दीयते। एतदर्थम् अकादमीद्वारा प्रत्येकं  विद्यालयः  पत्रैः सूच्यते।


संस्कृतशिक्षक-पुरस्कारः

  अकादमीद्वारा निश्चितनियमानुसारं उत्कृष्ट-शिक्षकाणां  सम्मानं प्रतिवर्षं क्रियते।


संगोष्ठ्यः, सम्मेलनानि
/कविसम्मेलनानि च

  भाषायाः संस्कृतेश्च प्रचारं, प्रसारं, विचाराणां  अनुभवानां च आदानं प्रदानं संवर्धयितुं दिल्ली-संस्कृत-अकादमी विभिन्नेषु  क्षेत्रेषु साहित्यिक-संगोष्ठीनाम् आयोजनं करोति। अन्यच्च अकादमीद्वारा नियमितरूपेण  प्रतियोगिताः, नाट्यसमारोहाः, कार्यशालाः, काव्यगोष्ठ्यश्च आयोज्यन्ते। एषु  कार्यक्रमेषु उदीयमानानां प्रतिष्ठितानां लेखकानां सम्मानो भवति। अकादमी प्रत्येकं  वर्षे विभिन्नेषु अवसरेषु प्राचीन-साहित्यकाराणां महापुरुषाणां च जन्मदिवसावसरे कविगोष्ठीनाम्  आयोजनं करोति।


गणतन्त्रदिवसम् उपलक्ष्य  राष्ट्रिय-संस्कृत-कविसम्मेलनम्---

  अकादम्या प्रतिवर्षं गणतन्त्रदिवसम्  उपलक्ष्य कविसम्मेलनं समायोज्यते। अस्मिन् सम्मेलने प्रसिद्धाः संस्कृतकवयः  स्वीयाः राष्ट्रभक्तिसंयुताः रचनाः प्रस्तुवन्ति।


त्रिदिवसीयम्  अखिलभारतीयनवोदितसंस्कृतविद्वत्सम्मेलनम्---

  अकादमी प्रतिवर्षं नवोदित-संस्कृत-विदुषां/विदुषीनां च कृते संस्कृतसम्मेलनं  समायोजयति। यस्मिन् सम्पूर्ण-भारतवर्षस्य शोधच्छात्राः विशिष्टरूपेण समायान्ति।

 
संस्कृत प्रतिभापुरस्कारः—

  अस्यां योजनायां दशम्यां, द्वादश्यां, स्नातके (बी.ए.),  स्नातकोत्तरे (एम.ए.) प्रथमायां, पूर्वमध्यमायां, शास्त्रिकक्षायां आचार्यश्रेण्यां  च संस्कृतविषये उत्कृष्ट-अंकान् लभ्यमानानां छात्राणां संस्कृत-प्रतिभा-पुरस्कारेण  सम्मानो भवति।

 
संस्कृत-प्रतियोगिता-पुरस्कारः—

  अकादमीद्वारा विभिन्नेषु मण्डलेषु आयोजितानां षट्दिवसात्मकानां  प्रतियोगितानां विजेतृ-प्रतिभागिभ्यः अकादमी पुरस्कार-प्रमाणपत्रादीनि प्रयच्छति।


विद्यालयस्तरस्य मण्डलीयाः प्रतियोगिताः

  अकादमी प्रतिवर्षं दिल्ली-शिक्षा-निदेशालयान्तर्गतेषु  सर्वेषु द्वादशमण्डलेषु छात्राणां संस्कृतभाषां प्रति  रुच्युत्पादनाय विभिन्नानां प्रतियोगितानाम् आयोजनं  करोति। ताश्च प्रतियोगिताः निम्नलिखिताः सन्ति।

  1. श्लोक-संगीत-प्रतियोगिता (‍समूहात्मिका बालिकाभ्य एव)
  2.  
  3. संस्कृतमाश्रित्य काव्यालि-प्रतियोगिता (समूह एव)
  4.  
  5. श्लोकोच्चारण-प्रतियोगिता (समूहात्मिका बालकेभ्य एव)
  6.  
  7. संस्कृतवाद-विवाद-प्रतियोगिता
  8.  
  9. संस्कृतभाषण-प्रतियोगिता
  10.  
  11. एकल-श्लोक-सङ्गीत-प्रतियोगिता


संस्कृतविद्यालयीयाः प्रतियोगिताः--

  अकादम्या संस्कृतभाषा-संवर्द्धनाय संस्कृत-मूल-विषयेषु  नानाप्रकाराः प्रतियोगिताः समायोज्यन्ते यासु संस्कृत-विद्यालये-अधीयानानाम् अध्येतृणां  छात्र-छात्राणाम् आकरैरेव भागग्रहणं क्रियते। प्रश्नमञ्च-प्रतियोगिता, एकल-श्लोक-संगीत-प्रतियोगिता  (मध्यमा-श्रेण्याः स्नातक-स्नातकोत्तरच्छात्राश्च), व्याकरण-सूत्रान्त्याक्षरी, संस्कृत-  भाषणम्, श्लोकान्त्याक्षरी, संस्कृतवाद-विवादः, वेदमन्त्रान्त्याक्षरी, अक्षर-श्लोकादिकस्य  च प्रतियोगिताः समायोज्यन्ते।

 
सामान्यमहाविद्यालयस्तरीयाः प्रतियोगिताः--

  महाविद्यालयीय-स्तरे संस्कृतभाषायाः विकासाय,  प्रचाराय प्रसाराय च अनेकाः प्रतियोगिताः आयोज्यन्ते अकादम्या। यासु श्लोक-संगीत-प्रतियोगिता  (समूहात्मिका) काव्यालि-प्रतियोगिता (समूहात्मिका) एकल-श्लोक-संगीत-प्रतियोगिता,  संस्कृत-भाषण-प्रतियोगिता, संस्कृत-वादविवाद-प्रतियोगिता, प्रश्नमञ्च-प्रतियोगिता  च समायोज्यन्ते।

 
संस्कृत-अध्ययन-केन्द्राणि---   

  प्रशासनिकसेवा-परीक्षायाः संस्कृताध्ययनकेन्द्रम्—
  इदं शिक्षण-केन्द्रम् एतादृशानां छात्राणां कृते  कल्पितं ये संस्कृतविषयम् अधिकृत्य भारतीय-प्रशासनिक-सेवापरीक्षायाम् सम्मिलिताः  भवितुम् इच्छन्ति।


कनिष्ठ-अनुसन्धान-अध्येतावृत्तिपरीक्षार्थिनां  कृते (जे.आर.एफ.) अध्ययनकेन्द्रम्---

  संस्कृतविषयं स्वीकृत्य ये छात्राः नेट/जे.आर.एफ. इति परीक्षायां सम्मिलिताः  भवितुम् इच्छन्ति, तेषां मार्गदर्शनाय इदं केन्द्रं सञ्चालितं भवति।


ज्योतिषः, कर्मकाण्डस्य, आयुर्वेदस्य, योगस्य  संस्कृतस्य च अध्ययनकेन्द्राणि---

  ये जनाः उपर्युक्तविषयाणां संस्कृतस्य च  परिचयात्मकम् अध्ययनं कर्त्तुम् इच्छन्ति, तेषां कृते इदम् अध्ययनकेन्द्रं  सञ्चालितं भवति---

 
संस्कृत-छात्रवृत्ति-योजना---

  दिल्लीस्थ-विद्यालय/महाविद्यालय-संस्कृतविद्यालय-संस्कृत-महाविद्यालयेषु  संस्कृतविषये उत्कृष्टाङ्कप्राप्तेभ्यः छात्रेभ्यः छात्राभ्यश्च नवमीश्रेणीतः  परास्नातक-श्रेणीं यावत् संस्कृतं पिपठिषुभ्यः अकादमी यथानियमं छात्रवृत्तीः प्रयच्छति।

 
पुस्तकालयः---

  अकादम्या कार्यालयपरिसर एव लघुपुस्तकालयः संस्थापितः  तत्र अकादमी-प्रकाशित- पुस्तकानि तथा च संस्कृतवाङ्मयस्य विविधानि पुस्तकानि  उपलब्धानि सन्ति।


संस्कृतपत्रिकाप्रेषण-योजना---

  एतस्यां योजनायां देहल्याः संस्कृत-विद्यालयेभ्यः,  विद्यापीठेभ्यः गुरुकुलेभ्यश्च संस्कृत-भाषायां प्रकाश्यमानाः विविधाः  पत्र-पत्रिकाः प्रेष्यन्ते।

 
पूर्णकालीन-संस्कृत-शिक्षक-योजना---

  अकादमी दिल्ली-सर्वकाराश्रितेषु केषुचित्  विद्यालयेषु पूर्णकालिकानां संस्कृत-शिक्षकाणां नियुक्तिं कृतवती। इमे शिक्षकाः प्रशिक्षितस्नातकशिक्षकाः  (टी.जी.टी.) इति स्तरीयाः सन्ति। एतेभ्यः वेतनं अकादमीपक्षत एव प्रदीयते।


अन्याः गतिविधयः---

  • संस्कृतकवीनां लेखकानां च साक्षात्कारः
  • एतस्मिन् साक्षात्कारे संस्कृतकवीनां/संस्कृतलेखकानां साक्षात्कारमाध्यमेन  तेषां काव्यरचनाया मूलभूताप्रेरणां जीवनस्यानुभवान् च आश्रित्य जनसामान्येभ्य  अभिज्ञावसरः कल्प्यते। 

  • दिल्लीस्थ-संस्कृत-विदुषां  समाराधना
  • अयं  कार्यक्रमः दिल्लीस्थानां प्रतिष्ठित-संस्कृत-विदुषां साहित्यिक-रचनायै,  संस्कृतस्य प्रचाराय प्रसाराय च तेषां योगदाने आधारितो वर्त्तते। यत्र सम्बद्धानां  विदुषां विदुषीणाञ्च कृतिषु परिचर्चा अपि विधीयते।

  •  अखिलभारतीय-मौलिक-संस्कृत-साहित्यरचना-पुरस्कारः---
  • एतस्यां परियोजनायां संस्कृतस्य मौलिकरचनाः  आमन्त्र्यन्ते, तेषां मूल्यांकनं मूर्धन्यविद्वद्भिः क्रियते। उत्कृष्टेभ्यः  रचनाकारेभ्यः यथानियमं पुरस्कारराशिः प्रदीयते।

  • अखिलभारतीय-नवोदित-संस्कृतकवि-प्रतियोगिता---
  • एतस्यां  प्रतियोगितायाम् उत्कृष्ट-काव्यपाठाय नवोदिताः (35 वर्षदेशीयाः) संस्कृतकवयः  आहूयन्ते। एभ्यः अकादमी-समित्या निर्धारित-नीत्यनुसारं पुरस्कारराशिः प्रदीयते।

  • अखिलभारतीय-संस्कृत-शोधनिबन्ध-लेखन-प्रतियोगिता---
  • अस्यां प्रतियोगितायाम् अकादम्या निर्धारितविषयेषु  पञ्चाशतधिकं द्विशतम् (250) पृष्ठानां शोधलेखाः  आमन्त्र्यन्ते। विद्वद्भिः शोधलेखानां मूल्याङ्कनं कारयित्वा यथायोग्याः पुरस्काराः  प्रदीयन्ते।

  •  संस्कृत-भित्तिचित्र-प्रतियोगिता---
  • अस्यां प्रतियोगितायाम्  अखिलभारतीयस्तरे विभिन्न-संस्कृतविद्वद्भिः संस्कृतसाहित्ये, काव्येषु कथासु वा  आधारितानि चित्राणि निर्माप्यन्ते, चित्राणां मूल्याङ्कनं कृत्वा पुरस्काराः  प्रदीयन्ते।

  • अखिलभारतीय-लघुकथा-नाटकलेखन-प्रतियोगिता---
  • अस्यां परियोजनायाम् अखिलभारतीयस्तरे  विदुषां संस्कृत-लघुकथाः नाटकानि च आमन्त्र्यन्ते। मूल्याङ्कनं कृत्वा पुरस्काराः  प्रदीयन्ते।

  • अखिलभारतीय-श्लोक-समस्यापूर्ति-प्रतियोगिता---
  • अस्यां प्रतियोगितायाम् अखिलभारतीयस्तरे  निर्धारित-विषये श्लोकाः आमन्त्र्यन्ते। यस्मिन् एकः शब्द प्रदीयते यः श्लोकस्य  चतुर्थपदे अवश्यमेव प्रयुज्येत। मूल्याङ्कनानन्तरं सर्वोत्तम-श्लोककारेभ्यः  पुरस्काराः प्रदीयन्ते।

  • अखिलभारतीय-सद्यः पद्यरचना-प्रतियोगिता---
  • अखिलभारतीयस्तरे संस्कृत-विदुषां कृते सद्यः  पद्यरचना-प्रतियोगितायाः आयोजनं क्रियते। यस्याम् अकादमीद्वारा निर्धारित-छन्दसि/निर्धारित-विषये वा प्रतियोगिभिः सद्यः  पद्यरचना क्रियते।

  • वरिष्ठ-संस्कृतनागरिक-सम्मानम्---
  • दिल्लीस्थितानां  संस्कृतविदुषां येषां वयः (75) पञ्चसप्ततिवर्षेभ्यः अधिकम् अस्ति, तेषां जीवनवृत्तस्य  संस्कृतसेवायाश्च आधारेण अकादम्याः नीत्यनुसारं सम्मानः क्रियते।

  • संस्कृतवाङ्मयोपायनसमारोहः---
  •   अस्मिन्  समारोहे दिल्लीस्थ-संस्कृतविद्यालयीय-पुस्तकालयानां कृते प्रतिवर्षं संस्कृत-साहित्यस्य  ज्ञानोपार्जकपुस्तकानि सम्मानस्वरूपं प्रदीयन्ते।


    मुख्यमन्त्री
    नूतनाः वार्त्ताः
    महत्त्वपूर्णाः सम्पर्काः
    Last Updated : 11 Oct,2019